ऋग्वेद · अध्याय 9.095
कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः ।
नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत स्वधाभिः ॥
हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् ।
देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥
अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ ।
नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर् उशन्तम् ॥
तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं गिरिष्ठाम् ।
तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥
इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् ।
इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0