ऋग्वेद · अध्याय 9.094
अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः ।
अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय मन्म ॥
द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम् ॥
परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः ॥
श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो दधाति ।
श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ ॥
इषम् ऊर्जम् अभ्य् अ1र्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि देवान् ।
विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0