ऋग्वेद · अध्याय 9.093
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥
सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
मर्यो न योषाम् अभि निष्कृतं यन् सं गच्छते कलश उस्रियाभिः ॥
उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः ।
मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः ॥
स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः ।
रथिरायताम् उशती पुरंधिर् अस्मद्र्य1ग् आ दावने वसूनाम् ॥
नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं विश्वश्चन्द्रम् ।
प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0