ऋग्वेद · अध्याय 9.092
परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः ।
आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवाँ अजुषत प्रयोभिः ॥
अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ ।
सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः ॥
प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् ।
भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः ॥
तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः ।
दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥
तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त ।
ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुं दस्यवे कर् अभीकम् ॥
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः ।
सोमः पुनानः कलशाँ अयासीत् सीदन् मृगो न महिषो वनेषु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0