भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.091

9.091.01

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।
दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निं सदनान्य् अच्छ ॥

9.091.02

वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः ।
प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः ॥

9.091.03

वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः ।
सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं वि याति ॥

9.091.04

रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् ।
वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम् ॥

9.091.05

स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।
ये दुःषहासो वनुषा बृहन्तस् ताँस् ते अश्याम पुरुकृत् पुरुक्षो ॥

9.091.06

एवा पुनानो अपः स्व1र् गा अस्मभ्यं तोका तनयानि भूरि ।
शं नः क्षेत्रम् उरु ज्योतींषि सोम ज्योङ् नः सूर्यं दृशये रिरीहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc