भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.090

9.090.01

प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न् अयासीत् ।
इन्द्रं गच्छन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर् आदधानः ॥

9.090.02

अभि त्रिपृष्ठं वृषणं वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः ।
वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि ॥

9.090.03

शूरग्रामः सर्ववीरः सहावाञ् जेता पवस्व सनिता धनानि ।
तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून् ॥

9.090.04

उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरंधी ।
अपः सिषासन्न् उषसः स्व1र् गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥

9.090.05

मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् ।
मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय ॥

9.090.06

एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद् दुरिता पवस्व ।
इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc