भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.089

9.089.01

प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः ।
सहस्रधारो असदन् न्य् अ1स्मे मातुर् उपस्थे वन आ च सोमः ॥

9.089.02

राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् ।
अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम् ॥

9.089.03

सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम् ।
शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा ॥

9.089.04

मधुपृष्ठं घोरम् अयासम् अश्वं रथे युञ्जन्त्य् उरुचक्र ऋष्वम् ।
स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति ॥

9.089.05

चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः ।
ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति पूर्वीः ॥

9.089.06

विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।
असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ॥

9.089.07

वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व ।
शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc