भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.088

9.088.01

अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि ।
त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय सोमम् ॥

9.088.02

स ईं रथो न भुरिषाळ् अयोजि महः पुरूणि सातये वसूनि ।
आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥

9.088.03

वायुर् न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम ॥

9.088.04

इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् ।
पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥

9.088.05

अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम् ॥

9.088.06

एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः ।
वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥

9.088.07

शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा विट् ।
आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः पृतनाषाण् न यज्ञः ॥

9.088.08

राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम ।
शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc