ऋग्वेद · अध्याय 9.087
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष ।
अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ॥
स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः ।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥
ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन ।
स चिद् विवेद निहितं यद् आसाम् अपीच्य1ं गुह्यं नाम गोनाम् ॥
एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।
सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात् ॥
एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः ॥
परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना पूयमानः ।
अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजम् अर्ष ॥
एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा ।
तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा ॥
एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद ।
दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा ॥
उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः ।
पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0