भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.081

9.081.01

प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः ।
दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम् उदमन्दिषुः सुताः ॥

9.081.02

अच्छा हि सोमः कलशाँ असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा ।
अथा देवानाम् उभयस्य जन्मनो विद्वाँ अश्नोत्य् अमुत इतश् च यत् ॥

9.081.03

आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः ।
शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः ॥

9.081.04

आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः ।
बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती ॥

9.081.05

उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता ।
भगो नृशंस उर्व् अ1न्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc