भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.080

9.080.01

सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि ।
बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥

9.080.02

यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि द्युमान् ।
मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥

9.080.03

एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः ।
प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा ॥

9.080.04

तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।
नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवाँ आ पवस्वा सहस्रजित् ॥

9.080.05

तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभं दश क्षिपः ।
इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो अर्षसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc