भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.079

9.079.01

अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः ।
वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः ॥

9.079.02

प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि ।
तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥

9.079.03

उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः ।
धन्वन् न तृष्णा सम् अरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥

9.079.04

दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः ।
अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अ1प्सु त्वा हस्तैर् दुदुहुर् मनीषिणः ॥

9.079.05

एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः ।
निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc