भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.078

9.078.01

प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति ।
गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम् ॥

9.078.02

इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने ।
पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः ॥

9.078.03

समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् ।
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ॥

9.078.04

गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् ।
यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ॥

9.078.05

एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि ।
जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc