भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.077

9.077.01

एष प्र कोशे मधुमाँ अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः ।
अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥

9.077.02

स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः ।
स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ॥

9.077.03

ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
ईक्षेण्यासो अह्यो3 न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ॥

9.077.04

अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ॥

9.077.05

चक्रिर् दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग् यते ।
असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc