भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.076

9.076.01

धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः ।
हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते नदीष्व् आ ॥

9.076.02

शूरो न धत्त आयुधा गभस्त्योः स्व1ः सिषासन् रथिरो गविष्टिषु ।
इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः ॥

9.076.03

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश ।
प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥

9.076.04

विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् ऋषिषाळ् अवीवशत् ।
यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः ॥

9.076.05

वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् ।
स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc