भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.075

9.075.01

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः ॥

9.075.02

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या अदाभ्यः ।
दधाति पुत्रः पित्रोर् अपीच्य1ं नाम तृतीयम् अधि रोचने दिवः ॥

9.075.03

अव द्युतानः कलशाँ अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये ।
अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥

9.075.04

अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः ।
रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे ॥

9.075.05

परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् ।
ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे मघम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc