भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.074

9.074.01

शिशुर् न जातो ऽव चक्रदद् वने स्व1र् यद् वाज्य् अरुषः सिषासति ।
दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः ॥

9.074.02

दिवो यः स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः ॥

9.074.03

महि प्सरः सुकृतं सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतं यते ।
ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर् ऋग्मियः ॥

9.074.04

आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं वि जायते ।
समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति पेरवः ॥

9.074.05

अरावीद् अंशुः सचमान ऊर्मिणा देवाव्य1म् मनुषे पिन्वति त्वचम् ।
दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च धामहे ॥

9.074.06

सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं घृतश्चुतः ॥

9.074.07

श्वेतं रूपं कृणुते यत् सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
धिया शमी सचते सेम् अभि प्रवद् दिवस् कवन्धम् अव दर्षद् उद्रिणम् ॥

9.074.08

अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् ।
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥

9.074.09

अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारं वि पवमान धावति ।
स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc