ऋग्वेद · अध्याय 9.073
स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः ।
त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ॥
सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् ।
मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ॥
पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् ।
महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ॥
सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ॥
पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् ।
इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ॥
प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः ।
अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥
सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः ।
रुद्रास एषाम् इषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥
ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अ1न्तर् आ दधे ।
विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ॥
ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।
धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0