ऋग्वेद · अध्याय 9.072
हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।
उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः ॥
साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद् आदुहुः ।
यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु ॥
अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो रवम् ।
अन्व् अस्मै जोषम् अभरद् विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥
नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः ।
पुरंधिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते ॥
नृबाहुभ्यां चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते ।
आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वो3र् आसदद् धरिः ॥
अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो ऽपसो मनीषिणः ।
सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥
नाभा पृथिव्या धरुणो महो दिवो3 ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः ।
इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥
स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो ।
मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलं वसीमहि ॥
आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद् धिरण्यवत् ।
उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0