ऋग्वेद · अध्याय 9.071
आ दक्षिणा सृज्यते शुष्म्य् आ3सदं वेति द्रुहो रक्षसः पाति जागृविः ।
हरिर् ओपशं कृणुते नभस् पय उपस्तिरे चम्वो3र् ब्रह्म निर्णिजे ॥
प्र कृष्टिहेव शूष एति रोरुवद् असुर्य1ं वर्णं नि रिणीते अस्य तम् ।
जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते निर्णिजं तना ॥
अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती ।
स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥
परि द्युक्षं सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियं वरीमभिः ॥
सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ ।
जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा अजीजनन् ॥
श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव एषति ।
ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्य् एति यज्ञियः ॥
परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि ।
सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति ॥
त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः ।
अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥
उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य ।
दिव्यः सुपर्णो ऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0