भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.070

9.070.01

त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि ।
चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत ॥

9.070.02

स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥

9.070.03

ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु ।
येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत ॥

9.070.04

स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥

9.070.05

स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः ॥

9.070.06

स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः ।
जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः ॥

9.070.07

रुवति भीमो वृषभस् तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी ॥

9.070.08

शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि ।
जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥

9.070.09

पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश ।
पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते ॥

9.070.10

हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व ।
नावा न सिन्धुम् अति पर्षि विद्वाञ् छूरो न युध्यन्न् अव नो निदः स्पः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc