ऋग्वेद · अध्याय 9.069
इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि ।
उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते ॥
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि ।
पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति ॥
अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतं यते ।
हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् ।
अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि सोमो अव्यत ॥
अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत ।
दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर् नभस्मयम् ॥
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते ।
तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन ॥
सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत ।
शं नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥
आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् ।
यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥
एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच्छ ।
सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो वृष्टिम् अच्छ ॥
इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।
भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतं नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0