भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.068

9.068.01

प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः ।
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं धिरे ॥

9.068.02

स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः ।
तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥

9.068.03

वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद् अक्षिता ।
मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे ॥

9.068.04

स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् ।
अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते रक्षते शिरः ॥

9.068.05

सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः ।
यूना ह सन्ता प्रथमं वि जज्ञतुर् गुहा हितं जनिम नेमम् उद्यतम् ॥

9.068.06

मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः ।
तम् मर्जयन्त सुवृधं नदीष्व् आँ उशन्तम् अंशुम् परियन्तम् ऋग्मियम् ॥

9.068.07

त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् ।
अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये ॥

9.068.08

परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य् अनूषत स्तुभः ।
यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळ् अमर्त्यः ॥

9.068.09

अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति ।
अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम् ॥

9.068.10

एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc