ऋग्वेद · अध्याय 9.067
त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ॥
त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः ।
इन्द्राय सूरिर् अन्धसा ॥
त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् ।
द्युमन्तं शुष्मम् उत्तमम् ॥
इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया ।
हरिर् वाजम् अचिक्रदत् ॥
इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा ।
वि वाजान् सोम गोमतः ॥
आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् ।
भरा सोम सहस्रिणम् ॥
पवमानास इन्दवस् तिरः पवित्रम् आशवः ।
इन्द्रं यामेभिर् आशत ॥
ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः ।
आयुः पवत आयवे ॥
हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् ।
अभि गिरा सम् अस्वरन् ॥
अविता नो अजाश्वः पूषा यामनि-यामनि ।
आ भक्षत् कन्यासु नः ॥
अयं सोमः कपर्दिने घृतं न पवते मधु ।
आ भक्षत् कन्यासु नः ॥
अयं त आघृणे सुतो घृतं न पवते शुचि ।
आ भक्षत् कन्यासु नः ॥
वाचो जन्तुः कवीनाम् पवस्व सोम धारया ।
देवेषु रत्नधा असि ॥
आ कलशेषु धावति श्येनो वर्म वि गाहते ।
अभि द्रोणा कनिक्रदत् ॥
परि प्र सोम ते रसो ऽसर्जि कलशे सुतः ।
श्येनो न तक्तो अर्षति ॥
पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥
असृग्रन् देववीतये वाजयन्तो रथा इव ॥
ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
दधत् स्तोत्रे सुवीर्यम् ॥
एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते ।
रक्षोहा वारम् अव्ययम् ॥
यद् अन्ति यच् च दूरके भयं विन्दति माम् इह ।
पवमान वि तज् जहि ॥
पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु नः ॥
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ ।
ब्रह्म तेन पुनीहि नः ॥
यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः ।
ब्रह्मसवैः पुनीहि नः ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
माम् पुनीहि विश्वतः ॥
त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः ।
अग्ने दक्षैः पुनीहि नः ॥
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः ।
देवेभ्य उत्तमं हविः ॥
उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् ।
अगन्म बिभ्रतो नमः ॥
अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम ।
आखुं चिद् एव देव सोम ॥
यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् ।
सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥
पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् ।
तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0