ऋग्वेद · अध्याय 9.066
पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या ।
सखा सखिभ्य ईड्यः ॥
ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
प्रतीची सोम तस्थतुः ॥
परि धामानि यानि ते त्वं सोमासि विश्वतः ।
पवमान ऋतुभिः कवे ॥
पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या ।
सखा सखिभ्य ऊतये ॥
तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते ।
पवित्रं सोम धामभिः ॥
तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
तुभ्यं धावन्ति धेनवः ॥
प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
दधानो अक्षिति श्रवः ॥
सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः ।
विप्रम् आजा विवस्वतः ॥
मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि ।
रेभो यद् अज्यसे वने ॥
पवमानस्य ते कवे वाजिन् सर्गा असृक्षत ।
अर्वन्तो न श्रवस्यवः ॥
अच्छा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये ।
अवावशन्त धीतयः ॥
अच्छा समुद्रम् इन्दवो ऽस्तं गावो न धेनवः ।
अग्मन्न् ऋतस्य योनिम् आ ॥
प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
यद् गोभिर् वासयिष्यसे ॥
अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः ।
इन्दो सखित्वम् उश्मसि ॥
आ पवस्व गविष्टये महे सोम नृचक्षसे ।
एन्द्रस्य जठरे विश ॥
महाँ असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः ।
युध्वा सञ् छश्वज् जिगेथ ॥
य उग्रेभ्यश् चिद् ओजीयाञ् छूरेभ्यश् चिच् छूरतरः ।
भूरिदाभ्यश् चिन् मंहीयान् ॥
त्वं सोम सूर एषस् तोकस्य साता तनूनाम् ।
वृणीमहे सख्याय वृणीमहे युज्याय ॥
अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
दधद् रयिम् मयि पोषम् ॥
पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् ।
सूरो न विश्वदर्शतः ॥
स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः ।
इन्दुर् अत्यो विचक्षणः ॥
पवमान ऋतम् बृहच् छुक्रं ज्योतिर् अजीजनत् ।
कृष्णा तमांसि जङ्घनत् ॥
पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ॥
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ॥
पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः ।
दधत् स्तोत्रे सुवीर्यम् ॥
प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् ।
पुनान इन्दुर् इन्द्रम् आ ॥
एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः ।
इन्द्रम् मदाय जोहुवत् ॥
यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः ।
तेन नो मृळ जीवसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0