ऋग्वेद · अध्याय 9.065
हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् ।
महाम् इन्दुम् महीयुवः ॥
पवमान रुचा-रुचा देवो देवेभ्यस् परि ।
विश्वा वसून्य् आ विश ॥
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
इषे पवस्व संयतम् ॥
वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वाध्यः ॥
आ पवस्व सुवीर्यम् मन्दमानः स्वायुध ।
इहो ष्व् इन्दव् आ गहि ॥
यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
द्रुणा सधस्थम् अश्नुषे ॥
प्र सोमाय व्यश्ववत् पवमानाय गायत ।
महे सहस्रचक्षसे ॥
यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः ।
इन्दुम् इन्द्राय पीतये ॥
तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
सखित्वम् आ वृणीमहे ॥
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ॥
तं त्वा धर्तारम् ओण्यो3ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनम् ॥
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ॥
आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः ।
अस्मभ्यं सोम गातुवित् ॥
आ कलशा अनूषतेन्दो धाराभिर् ओजसा ।
एन्द्रस्य पीतये विश ॥
यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः ।
स पवस्वाभिमातिहा ॥
राजा मेधाभिर् ईयते पवमानो मनाव् अधि ।
अन्तरिक्षेण यातवे ॥
आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् ।
वहा भगत्तिम् ऊतये ॥
आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
सुष्वाणो देववीतये ॥
अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् ।
सीदञ् छ्येनो न योनिम् आ ॥
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमो अर्षति विष्णवे ॥
इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणम् ॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
ये वादः शर्यणावति ॥
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
ये वा जनेषु पञ्चसु ॥
ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् ।
सुवाना देवास इन्दवः ॥
पवते हर्यतो हरिर् गृणानो जमदग्निना ।
हिन्वानो गोर् अधि त्वचि ॥
प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
श्रीणाना अप्सु मृञ्जत ॥
तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये ।
स पवस्वानया रुचा ॥
आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे ।
पान्तम् आ पुरुस्पृहम् ॥
आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् ।
पान्तम् आ पुरुस्पृहम् ॥
आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ ।
पान्तम् आ पुरुस्पृहम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0