ऋग्वेद · अध्याय 9.064
वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दधिषे ॥
वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
सत्यं वृषन् वृषेद् असि ॥
अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः ।
वि नो राये दुरो वृधि ॥
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ॥
शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः ।
पवन्ते वारे अव्यये ॥
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
पवन्ताम् आन्तरिक्ष्या ॥
पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत ।
सूर्यस्येव न रश्मयः ॥
केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि ।
समुद्रः सोम पिन्वसे ॥
हिन्वानो वाचम् इष्यसि पवमान विधर्मणि ।
अक्रान् देवो न सूर्यः ॥
इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती ।
सृजद् अश्वं रथीर् इव ॥
ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् ।
सीदन्न् ऋतस्य योनिम् आ ॥
स नो अर्ष पवित्र आ मदो यो देववीतमः ।
इन्दव् इन्द्राय पीतये ॥
इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि ॥
पुनानो वरिवस् कृध्य् ऊर्जं जनाय गिर्वणः ।
हरे सृजान आशिरम् ॥
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
द्युतानो वाजिभिर् यतः ॥
प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः ।
धिया जूता असृक्षत ॥
मर्मृजानास आयवो वृथा समुद्रम् इन्दवः ।
अग्मन्न् ऋतस्य योनिम् आ ॥
परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा ।
पाहि नः शर्म वीरवत् ॥
मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः ।
प्र यत् समुद्र आहितः ॥
आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति ।
जहात्य् अप्रचेतसः ॥
अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
मज्जन्त्य् अविचेतसः ॥
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
ऋतस्य योनिम् आसदम् ॥
तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
सं त्वा मृजन्त्य् आयवः ॥
रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
पवमानस्य मरुतः ॥
त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि ।
इन्दो सहस्रभर्णसम् ॥
उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
पुनान इन्दव् आ भर ॥
पुनान इन्दव् एषाम् पुरुहूत जनानाम् ।
प्रियः समुद्रम् आ विश ॥
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
सोमाः शुक्रा गवाशिरः ॥
हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् ।
सीदन्तो वनुषो यथा ॥
ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः ।
पवस्व सूर्यो दृशे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0