भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.063

9.063.01

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
अस्मे श्रवांसि धारय ॥

9.063.02

इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
चमूष्व् आ नि षीदसि ॥

9.063.03

सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
मधुमाँ अस्तु वायवे ॥

9.063.04

एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः ।
सोमा ऋतस्य धारया ॥

9.063.05

इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् ।
अपघ्नन्तो अराव्णः ॥

9.063.06

सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः ।
इन्द्रं गच्छन्त इन्दवः ॥

9.063.07

अया पवस्व धारया यया सूर्यम् अरोचयः ।
हिन्वानो मानुषीर् अपः ॥

9.063.08

अयुक्त सूर एतशम् पवमानो मनाव् अधि ।
अन्तरिक्षेण यातवे ॥

9.063.09

उत त्या हरितो दश सूरो अयुक्त यातवे ।
इन्दुर् इन्द्र इति ब्रुवन् ॥

9.063.10

परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
अव्यो वारेषु सिञ्चत ॥

9.063.11

पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् ।
यो दूणाशो वनुष्यता ॥

9.063.12

अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् ।
अभि वाजम् उत श्रवः ॥

9.063.13

सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः ।
दधानः कलशे रसम् ॥

9.063.14

एते धामान्य् आर्या शुक्रा ऋतस्य धारया ।
वाजं गोमन्तम् अक्षरन् ॥

9.063.15

सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
पवित्रम् अत्य् अक्षरन् ॥

9.063.16

प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
मदो यो देववीतमः ॥

9.063.17

तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् ।
इन्दुम् इन्द्राय मत्सरम् ॥

9.063.18

आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् ।
वाजं गोमन्तम् आ भर ॥

9.063.19

परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत ।
इन्द्राय मधुमत्तमम् ॥

9.063.20

कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः ।
वृषा कनिक्रद् अर्षति ॥

9.063.21

वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया ।
मती विप्राः सम् अस्वरन् ॥

9.063.22

पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः ।
वायुम् आ रोह धर्मणा ॥

9.063.23

पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
प्रियः समुद्रम् आ विश ॥

9.063.24

अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः ।
नुदस्वादेवयुं जनम् ॥

9.063.25

पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या ॥

9.063.26

पवमानास आशवः शुभ्रा असृग्रम् इन्दवः ।
घ्नन्तो विश्वा अप द्विषः ॥

9.063.27

पवमाना दिवस् पर्य् अन्तरिक्षाद् असृक्षत ।
पृथिव्या अधि सानवि ॥

9.063.28

पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
जहि रक्षांसि सुक्रतो ॥

9.063.29

अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् ।
द्युमन्तं शुष्मम् उत्तमम् ॥

9.063.30

अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
इन्दो विश्वानि वार्या ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc