भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.062

9.062.01

एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः ।
विश्वान्य् अभि सौभगा ॥

9.062.02

विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
तना कृण्वन्तो अर्वते ॥

9.062.03

कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् ।
इळाम् अस्मभ्यं संयतम् ॥

9.062.04

असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिम् आसदत् ॥

9.062.05

शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः ।
स्वदन्ति गावः पयोभिः ॥

9.062.06

आद् ईम् अश्वं न हेतारो ऽशूशुभन्न् अमृताय ।
मध्वो रसं सधमादे ॥

9.062.07

यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये ।
ताभिः पवित्रम् आसदः ॥

9.062.08

सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया ।
सीदन् योना वनेष्व् आ ॥

9.062.09

त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
वरिवोविद् घृतम् पयः ॥

9.062.10

अयं विचर्षणिर् हितः पवमानः स चेतति ।
हिन्वान आप्यम् बृहत् ॥

9.062.11

एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
करद् वसूनि दाशुषे ॥

9.062.12

आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् ।
पुरुश्चन्द्रम् पुरुस्पृहम् ॥

9.062.13

एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
उरुगायः कविक्रतुः ॥

9.062.14

सहस्रोतिः शतामघो विमानो रजसः कविः ।
इन्द्राय पवते मदः ॥

9.062.15

गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते ।
विर् योना वसताव् इव ॥

9.062.16

पवमानः सुतो नृभिः सोमो वाजम् इवासरत् ।
चमूषु शक्मनासदम् ॥

9.062.17

तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे ।
ऋषीणां सप्त धीतिभिः ॥

9.062.18

तं सोतारो धनस्पृतम् आशुं वाजाय यातवे ।
हरिं हिनोत वाजिनम् ॥

9.062.19

आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः ।
शूरो न गोषु तिष्ठति ॥

9.062.20

आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः ।
देवा देवेभ्यो मधु ॥

9.062.21

आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् ।
देवेभ्यो देवश्रुत्तमम् ॥

9.062.22

एते सोमा असृक्षत गृणानाः श्रवसे महे ।
मदिन्तमस्य धारया ॥

9.062.23

अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
सनद्वाजः परि स्रव ॥

9.062.24

उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः ।
गृणानो जमदग्निना ॥

9.062.25

पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः ।
अभि विश्वानि काव्या ॥

9.062.26

त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् ।
पवस्व विश्वमेजय ॥

9.062.27

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
तुभ्यम् अर्षन्ति सिन्धवः ॥

9.062.28

प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः ।
अभि शुक्राम् उपस्तिरम् ॥

9.062.29

इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् ।
ईशानं वीतिराधसम् ॥

9.062.30

पवमान ऋतः कविः सोमः पवित्रम् आसदत् ।
दधत् स्तोत्रे सुवीर्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc