ऋग्वेद · अध्याय 9.061
अया वीती परि स्रव यस् त इन्दो मदेष्व् आ ।
अवाहन् नवतीर् नव ॥
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
अध त्यं तुर्वशं यदुम् ॥
परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् ।
क्षरा सहस्रिणीर् इषः ॥
पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः ।
सखित्वम् आ वृणीमहे ॥
ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया ।
तेभिर् नः सोम मृळय ॥
स नः पुनान आ भर रयिं वीरवतीम् इषम् ।
ईशानः सोम विश्वतः ॥
एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
सम् आदित्येभिर् अख्यत ॥
सम् इन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ॥
स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
चारुर् मित्रे वरुणे च ॥
उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे ।
उग्रं शर्म महि श्रवः ॥
एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे ॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित् परि स्रव ॥
उपो षु जातम् अप्तुरं गोभिर् भङ्गम् परिष्कृतम् ।
इन्दुं देवा अयासिषुः ॥
तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव ।
य इन्द्रस्य हृदंसनिः ॥
अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् ।
वर्धा समुद्रम् उक्थ्यम् ॥
पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् ।
ज्योतिर् वैश्वानरम् बृहत् ॥
पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः ।
वि वारम् अव्यम् अर्षति ॥
पवमान रसस् तव दक्षो वि राजति द्युमान् ।
ज्योतिर् विश्वं स्वर् दृशे ॥
यस् ते मदो वरेण्यस् तेना पवस्वान्धसा ।
देवावीर् अघशंसहा ॥
जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे ।
गोषा उ अश्वसा असि ॥
सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः ।
सीदञ् छ्येनो न योनिम् आ ॥
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
वव्रिवांसम् महीर् अपः ॥
सुवीरासो वयं धना जयेम सोम मीढ्वः ।
पुनानो वर्ध नो गिरः ॥
त्वोतासस् तवावसा स्याम वन्वन्त आमुरः ।
सोम व्रतेषु जागृहि ॥
अपघ्नन् पवते मृधो ऽप सोमो अराव्णः ।
गच्छन्न् इन्द्रस्य निष्कृतम् ॥
महो नो राय आ भर पवमान जही मृधः ।
रास्वेन्दो वीरवद् यशः ॥
न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् ।
यत् पुनानो मखस्यसे ॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥
अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
सासह्याम पृतन्यतः ॥
या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे ।
रक्षा समस्य नो निदः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0