भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.046

9.046.01

असृग्रन् देववीतये ऽत्यासः कृत्व्या इव ।
क्षरन्तः पर्वतावृधः ॥

9.046.02

परिष्कृतास इन्दवो योषेव पित्र्यावती ।
वायुं सोमा असृक्षत ॥

9.046.03

एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः ।
इन्द्रं वर्धन्ति कर्मभिः ॥

9.046.04

आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
गोभिः श्रीणीत मत्सरम् ॥

9.046.05

स पवस्व धनंजय प्रयन्ता राधसो महः ।
अस्मभ्यं सोम गातुवित् ॥

9.046.06

एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः ।
इन्द्राय मत्सरम् मदम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc