भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.047

9.047.01

अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत ।
मन्दान उद् वृषायते ॥

9.047.02

कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
ऋणा च धृष्णुश् चयते ॥

9.047.03

आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
उक्थं यद् अस्य जायते ॥

9.047.04

स्वयं कविर् विधर्तरि विप्राय रत्नम् इच्छति ।
यदी मर्मृज्यते धियः ॥

9.047.05

सिषासतू रयीणां वाजेष्व् अर्वताम् इव ।
भरेषु जिग्युषाम् असि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc