भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.042

9.042.01

जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् ।
वसानो गा अपो हरिः ॥

9.042.02

एष प्रत्नेन मन्मना देवो देवेभ्यस् परि ।
धारया पवते सुतः ॥

9.042.03

वावृधानाय तूर्वये पवन्ते वाजसातये ।
सोमाः सहस्रपाजसः ॥

9.042.04

दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते ।
क्रन्दन् देवाँ अजीजनत् ॥

9.042.05

अभि विश्वानि वार्याभि देवाँ ऋतावृधः ।
सोमः पुनानो अर्षति ॥

9.042.06

गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः ।
पवस्व बृहतीर् इषः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc