भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.041

9.041.01

प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णाम् अप त्वचम् ॥

9.041.02

सुवितस्य मनामहे ऽति सेतुं दुराव्यम् ।
साह्वांसो दस्युम् अव्रतम् ॥

9.041.03

शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि ॥

9.041.04

आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् ।
अश्वावद् वाजवत् सुतः ॥

9.041.05

स पवस्व विचर्षण आ मही रोदसी पृण ।
उषाः सूर्यो न रश्मिभिः ॥

9.041.06

परि णः शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc