ऋग्वेद · अध्याय 9.043
यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः ।
तं गीर्भिर् वासयामसि ॥
तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
इन्दुम् इन्द्राय पीतये ॥
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
विप्रस्य मेध्यातिथेः ॥
पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् ।
इन्दो सहस्रवर्चसम् ॥
इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ ।
यद् अक्षार् अति देवयुः ॥
पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
सोम रास्व सुवीर्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0