ऋग्वेद · अध्याय 9.040
पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ॥
आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः ।
ध्रुवे सदसि सीदति ॥
नू नो रयिम् महाम् इन्दो ऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणम् ॥
विश्वा सोम पवमान द्युम्नानीन्दव् आ भर ।
विदाः सहस्रिणीर् इषः ॥
स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
जरितुर् वर्धया गिरः ॥
पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् ।
वृषन्न् इन्दो न उक्थ्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0