ऋग्वेद · अध्याय 9.039
आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना ।
यत्र देवा इति ब्रवन् ॥
परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः ।
वृष्टिं दिवः परि स्रव ॥
सुत एति पवित्र आ त्विषिं दधान ओजसा ।
विचक्षाणो विरोचयन् ॥
अयं स यो दिवस् परि रघुयामा पवित्र आ ।
सिन्धोर् ऊर्मा व्य् अक्षरत् ॥
आविवासन् परावतो अथो अर्वावतः सुतः ।
इन्द्राय सिच्यते मधु ॥
समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः ।
योनाव् ऋतस्य सीदत ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0