भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.038

9.038.01

एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति ।
गच्छन् वाजं सहस्रिणम् ॥

9.038.02

एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः ।
इन्दुम् इन्द्राय पीतये ॥

9.038.03

एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
याभिर् मदाय शुम्भते ॥

9.038.04

एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति ।
गच्छञ् जारो न योषितम् ॥

9.038.05

एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः ।
य इन्दुर् वारम् आविशत् ॥

9.038.06

एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः ।
क्रन्दन् योनिम् अभि प्रियम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc