भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.037

9.037.01

स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
विघ्नन् रक्षांसि देवयुः ॥

9.037.02

स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः ।
अभि योनिं कनिक्रदत् ॥

9.037.03

स वाजी रोचना दिवः पवमानो वि धावति ।
रक्षोहा वारम् अव्ययम् ॥

9.037.04

स त्रितस्याधि सानवि पवमानो अरोचयत् ।
जामिभिः सूर्यं सह ॥

9.037.05

स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः ।
सोमो वाजम् इवासरत् ॥

9.037.06

स देवः कविनेषितो3 ऽभि द्रोणानि धावति ।
इन्दुर् इन्द्राय मंहना ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc