ऋग्वेद · अध्याय 9.036
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
कार्ष्मन् वाजी न्य् अक्रमीत् ॥
स वह्निः सोम जागृविः पवस्व देववीर् अति ।
अभि कोशम् मधुश्चुतम् ॥
स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
क्रत्वे दक्षाय नो हिनु ॥
शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः ।
पवते वारे अव्यये ॥
स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
पवताम् आन्तरिक्ष्या ॥
आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि ।
वीरयुः शवसस् पते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0