ऋग्वेद · अध्याय 9.035
आ नः पवस्व धारया पवमान रयिम् पृथुम् ।
यया ज्योतिर् विदासि नः ॥
इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
रायो धर्ता न ओजसा ॥
त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः ।
क्षरा णो अभि वार्यम् ॥
प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः ।
व्रता विदान आयुधा ॥
तं गीर्भिर् वाचमीङ्खयम् पुनानं वासयामसि ।
सोमं जनस्य गोपतिम् ॥
विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः ।
पुनानस्य प्रभूवसोः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0