भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.034

9.034.01

प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति ।
रुजद् दृळ्हा व्य् ओजसा ॥

9.034.02

सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमो अर्षति विष्णवे ॥

9.034.03

वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः ।
दुहन्ति शक्मना पयः ॥

9.034.04

भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः ।
सं रूपैर् अज्यते हरिः ॥

9.034.05

अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः ।
चारु प्रियतमं हविः ॥

9.034.06

सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
धेनूर् वाश्रो अवीवशत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc