ऋग्वेद · अध्याय 9.033
प्र सोमासो विपश्चितो ऽपां न यन्त्य् ऊर्मयः ।
वनानि महिषा इव ॥
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
वाजं गोमन्तम् अक्षरन् ॥
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्ति विष्णवे ॥
तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः ।
हरिर् एति कनिक्रदत् ॥
अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः ।
मर्मृज्यन्ते दिवः शिशुम् ॥
रायः समुद्राँश् चतुरो ऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0