भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.032

9.032.01

प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥

9.032.02

आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः ।
इन्दुम् इन्द्राय पीतये ॥

9.032.03

आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् ।
अत्यो न गोभिर् अज्यते ॥

9.032.04

उभे सोमावचाकशन् मृगो न तक्तो अर्षसि ।
सीदन्न् ऋतस्य योनिम् आ ॥

9.032.05

अभि गावो अनूषत योषा जारम् इव प्रियम् ।
अगन्न् आजिं यथा हितम् ॥

9.032.06

अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च ।
सनिम् मेधाम् उत श्रवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc