भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.031

9.031.01

प्र सोमासः स्वाध्य1ः पवमानासो अक्रमुः ।
रयिं कृण्वन्ति चेतनम् ॥

9.031.02

दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
भवा वाजानाम् पतिः ॥

9.031.03

तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः ।
सोम वर्धन्ति ते महः ॥

9.031.04

आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥

9.031.05

तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् ।
वर्षिष्ठे अधि सानवि ॥

9.031.06

स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
इन्दो सखित्वम् उश्मसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc