ऋग्वेद · अध्याय 9.027
एष कविर् अभिष्टुतः पवित्रे अधि तोशते ।
पुनानो घ्नन्न् अप स्रिधः ॥
एष इन्द्राय वायवे स्वर्जित् परि षिच्यते ।
पवित्रे दक्षसाधनः ॥
एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः ।
सोमो वनेषु विश्ववित् ॥
एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः ।
इन्दुः सत्राजिद् अस्तृतः ॥
एष सूर्येण हासते पवमानो अधि द्यवि ।
पवित्रे मत्सरो मदः ॥
एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः ।
पुनान इन्दुर् इन्द्रम् आ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0