भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.024

9.024.01

प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
श्रीणाना अप्सु मृञ्जत ॥

9.024.02

अभि गावो अधन्विषुर् आपो न प्रवता यतीः ।
पुनाना इन्द्रम् आशत ॥

9.024.03

प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
नृभिर् यतो वि नीयसे ॥

9.024.04

त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
सस्निर् यो अनुमाद्यः ॥

9.024.05

इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि ।
अरम् इन्द्रस्य धाम्ने ॥

9.024.06

पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः ।
शुचिः पावको अद्भुतः ॥

9.024.07

शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
देवावीर् अघशंसहा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc