ऋग्वेद · अध्याय 9.023
सोमा असृग्रम् आशवो मधोर् मदस्य धारया ।
अभि विश्वानि काव्या ॥
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
रुचे जनन्त सूर्यम् ॥
आ पवमान नो भरार्यो अदाशुषो गयम् ।
कृधि प्रजावतीर् इषः ॥
अभि सोमास आयवः पवन्ते मद्यम् मदम् ।
अभि कोशम् मधुश्चुतम् ॥
सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् ।
सुवीरो अभिशस्तिपाः ॥
इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
इन्दो वाजं सिषाससि ॥
अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति ।
जघान जघनच् च नु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0