ऋग्वेद · अध्याय 9.025
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ॥
पवमान धिया हितो3 ऽभि योनिं कनिक्रदत् ।
धर्मणा वायुम् आ विश ॥
सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः ।
वृत्रहा देववीतमः ॥
विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः ।
यत्रामृतास आसते ॥
अरुषो जनयन् गिरः सोमः पवत आयुषक् ।
इन्द्रं गच्छन् कविक्रतुः ॥
आ पवस्व मदिन्तम पवित्रं धारया कवे ।
अर्कस्य योनिम् आसदम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0