भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.022

9.022.01

एते सोमास आशवो रथा इव प्र वाजिनः ।
सर्गाः सृष्टा अहेषत ॥

9.022.02

एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
अग्नेर् इव भ्रमा वृथा ॥

9.022.03

एते पूता विपश्चितः सोमासो दध्याशिरः ।
विपा व्य् आनशुर् धियः ॥

9.022.04

एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
इयक्षन्तः पथो रजः ॥

9.022.05

एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः ।
उतेदम् उत्तमं रजः ॥

9.022.06

तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत ।
उतेदम् उत्तमाय्यम् ॥

9.022.07

त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
ततं तन्तुम् अचिक्रदः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc